Happy Akshayyatrtiya. Some verses on sunya and Mahasunya are quoted by Madhvacharya in tattvoddyota and anuvyakhyana. I am not able to trace them. I will be grateful for leads. Mahasunya concept may be available in Tibetan Buddhist texts?
सत्यं तु द्विविधं प्रोक्तं सांवृतं पारमार्थिकम् । सांवृतं व्यावहार्यं स्यान्निवृत्तौ पारमार्थिकम् ।। (This is from madhyamikakarika) विचार्यमाणे नो सत्त्वं सत्त्वं चापि प्रतीयते । यस्य तत्सांवृतं ज्ञेयं व्यवहारपदं च यत् ।। निविशेषं स्वयं भातं निर्ेपमजरामरम् । शून्यं तत्त्वमविज्ञेयं मनोवाचामगोचरम् ।। जाड्यसंवृतिदुःखान्तपूर्वदोषविरोधि यत् । नित्यभावनया भातं तद्भावं योगिनं नयेत् ।। नास्य सत्त्वमसत्त्वं वा न दोषो गुण एव वा । हेयोपादेयरहितं तच्छून्यं पदमक्षयम् ।। इति च शून्यवादी । Tattvoddyota अपरः शून्यमखिलं मनोवाचामगोचरम् । निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् ।।212।। अशेषदोषरहितमनन्तं देशकालतः । वस्तुतश्च तदस्मीति नित्योपासापरोक्षितम् ।।213।। रागादिदोषरहितं तद्भावं योगिनं नयेत् । तस्यैवानादिसंवृत्या नानाभेदात्मकं जगत् ।।214।। सदिवाभाति सत्यत्वं सांवृतं तस्य चेष्यते । पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित् ।।215।। सांवृतेनैव सत्वेन व्यवहारोखिलो भवेत् । शून्यात् संवृतियोगेन विश्वमेतत् प्रवर्तते ।।216।। सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् ।...... चतुष्प्रकारं तच्चोक्तं शून्यं विज्ञानमेकम् । अनुमेयबहिस्तत्त्वं तथा प्रत्यक्षबाह्यगम् ।।35।। इति तत्र तु ये शून्यं वदन्त्यज्ञानमोहिताः । ते मोक्षं तादृशं ब्रूयुर्निःशङ्कं मायिनो यथा ।।36।। न किञ्चिन्मुक्त्यवस्थायामात्मात्मीयमथापि वा । एकस्मिन् संसृतेर्मुक्ते न किञ्चिदवशिष्यते ।।37।। तत्संवृत्यैव भेदोयं चेतनाचेतनात्मकः । दृश्यते संसृतेर्ध्वंसे निर्विशेषैव शून्यता ।।38।। न सत्त्वं नैव चासत्त्वं शून्यतत्त्वस्य विद्यते । न सुखत्वं न दुःखत्वं न विशेषोपि कश्चन ।।39।। निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् । शून्यं तत्त्वमसम्बाधं नानासंवृतिवर्जितम् ।।40।। अशेषदोषरहितं मनोवाचामगोचरम् । मोक्ष इत्युच्यते सद्भिर्नानासंवृतिदूषितम् ।।41।। संसृत्यवस्था विज्ञेया संवृत्यैव विशिष्यते । स्थितया ध्वस्तया चैव संसृतिर्मोक्ष इत्यपि ।।42।। केचित् तेष्वन्यथा प्राहुः संवृत्यैव त्वनेकधा । *अवच्छिन्नं महाशून्यं *नाना पुद्गलशब्दितम् ।।43।। यस्य शून्यैकरसताज्ञानात्मा त्वपगच्छति । स पुद्गलत्वनिर्मुक्तो महाशून्यत्वमेष्यति ।।44।। संवृत्त्या यस्त्ववच्छिन्नो दुःखान्यनुभवत्यम् । (Anuvyakhyana)
_______________________________________________ INDOLOGY mailing list [email protected] https://list.indology.info/mailman/listinfo/indology
